Rigveda · Maṇḍala 1

Sūkta 49

मन्त्र 1

उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ । वहं॑त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हं ॥

úṣo bhadrébhirā́ gahi diváścidrocanā́dádhi ǀ váhantvaruṇápsava úpa tvā somíno gṛhám ǁ

मन्त्र 2

सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वं । तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥

supéśasam sukhám rátham yámadhyásthā uṣastvám ǀ ténā suśrávasam jánam prā́vādyá duhitardivaḥ ǁ

मन्त्र 3

वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि । उषः॒ प्रार॑न्नृ॒तूँरनु॑ दि॒वो अंते॑भ्य॒स्परि॑ ॥

váyaścitte patatríṇo dvipáccátuṣpadarjuni ǀ úṣaḥ prā́rannṛtū́m̐ránu divó ántebhyaspári ǁ

मन्त्र 4

व्यु॒च्छंती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नं । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥

vyucchántī hí raśmíbhirvíśvamābhā́si rocanám ǀ tā́m tvā́muṣarvasūyávo gīrbhíḥ káṇvā ahūṣata ǁ